(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.85. अध्यायः 085
Mahabharata - Vana Parva - Chapter Topics
धौम्येन युधिष्ठिरय प्राचीस्थनानातीर्थकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-85-0x(1994)(19602)
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः।
अश्वासयंस्तथा धौम्यो बृहस्पतिसमोऽब्रवीत् ॥ 3-85-1(19603)
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ।
दिशस्तीर्थानि शैलांश्च शृणु मे वदतोऽनघ ॥ 3-85-2(19604)
याञ्श्रुत्वा गदतो राजन्विशोको भवितासि ह।
द्रौपद्या चानया सार्धं भ्रातृभिश्च नरेश्वर ॥ 3-85-3(19605)
श्रवणाच्चैव तेषां त्वं पुण्यमाप्स्यसि पाण्डव।
गत्वा शतगुणं चैव तेभ्य एव नरोत्तम ॥ 3-85-4(19606)
शृणु पूर्वां दिशं राजन्देवर्षिगणसेविताम्।
रम्यां ते कथयिष्यामि युधिष्ठिर यथास्मृति ॥ 3-85-5(19607)
तस्यां रदेवर्षिजुष्टायां नैमिषं नाम भारत।
यत्रतीर्थानि देवानां पुण्यानि च पृथक् पृथक् ॥ 3-85-6(19608)
यत्र सा गोमती पुण्या रम्या देवर्षिसेविता।
यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ॥ 3-85-7(19609)
तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः।
शिवं ब्रह्मसरो यत्रसेवितं त्रिदशर्षिभिः ॥ 3-85-8(19610)
यदर्थे पुरुषव्याघ्र कीर्तयन्ति पुरातनाः।
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥ 3-85-9(19611)
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत्।
उत्तारयति संतत्या दश पूर्वान्दशावरान् ॥ 3-85-10(19612)
महानदी च तत्रैव तथा गयशिरो नृप।
यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः ॥ 3-85-11(19613)
यत्रदत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो।
सा च पुण्यजला तत्र फल्गुनामा महानदी ॥ 3-85-12(19614)
बहुमूलफला चापि कौशिकी भरतर्षभ।
विश्वामित्रोऽध्यगाद्यत्र ब्राह्मणत्वं तपोधनः ॥ 3-85-13(19615)
गङ्गा यत्रनदी पुण्या यस्यास्तीरे भगीरथः।
अयजत्तत्रबहुभिः क्रतुभिर्भूरिदक्षिणैः ॥ 3-85-14(19616)
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम्।
विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः ॥ 3-85-15(19617)
यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ।
विश्वामित्रस्य तां दृष्ट्वा चिभूतिमतिमानुषीम् ॥ 3-85-16(19618)
कान्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः।
ततः क्षत्रादपाक्रामद्ब्राह्मणोस्मीति चाब्रवीत् ॥ 3-85-17(19619)
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम्।
गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम् ॥ 3-85-18(19620)
यत्रायजत भूतात्मा पूर्वमेव पितामहः।
प्रयागमिति विख्यातं तस्माद्भरतसत्तम ॥ 3-85-19(19621)
अगस्त्यस्य तु राजेन्द्र तत्राश्रमवरो नृप।
तत्तथा तापसारण्यं तापसैरुपशोभितम् ॥ 3-85-20(19622)
हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे महान्।
आगस्त्यपर्वतोरभ्यः पुण्यो गिरिवः शिवः ॥ 3-85-21(19623)
महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः।
अयजत्तत्रकौन्तेय पूर्वमेव पितामहः ॥ 3-85-22(19624)
यत्रभागीरथी पुण्यां सरस्यासीद्युधिष्ठिर।
यत्र सा ब्रह्मशालेति पुण्याख्याता विशांपते।
धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ॥ 3-85-23(19625)
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः।
केदारश्च मतङ्गस्य महानाश्रम उत्तमः ॥ 3-85-24(19626)
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः।
नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ॥ 3-85-25(19627)
यत्र देववनं पुण्यं तापसैरुपशोभितम्।
बाहुदा च नदी यत्रनन्दा च गिरिमूर्धनि ॥ 3-85-26(19628)
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च।
प्राच्यां दिशि महाराज कीर्तितानि मया तव ॥ 3-85-27(19629)
तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु।
सरितः पर्वतांश्चैव पुण्यान्यायतनानि च ॥ 3-85-28(19630)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-85-7 शामित्रं शमितुः कर्म यज्ञे पशुमारणम्। विवस्वतः पुत्रस्य यमस्येति शेषः ॥ 3-85-8 तस्यां प्राच्यां दिशि। राजर्षिरपि गयसंज्ञः ॥ 3-85-18 पविर्वज्रं तत्तुल्यं जन्ममरणादिदुःखं तस्मात्रायत इति पवित्रम्। अतएव ऋषिभिर्जुष्टं सेवितम्। पुण्यं धर्मवृद्धिहेतुः। पावनं पापनाशनम् ॥ 3-85-21 अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः इति क. पाठः ॥ 3-85-23 सरसि मणिकर्णिकाख्ये प्रविष्टा आसीत्। आकार्णा व्याप्ता ॥ 3-85-24 मङ्गलीयः मङ्गलावहः ॥ 3-85-25 नैषधो नलः ॥ 3-85-26 बहुला च नदी यत्रेति क. ध. पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.